|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.294. अध्यायः 294
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति मुक्तिसाधनप्रतिपादकसगरारिष्टनेमिसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-294-0x(6432)(77252)
कथं नु युक्तः पृथिवीं चरेदस्मद्विधो नृपः।
नित्यं कैश्च गुणैर्युक्तः सङ्गपाशाद्विमुच्यते॥ 12-294-1(77253)
भीष्म उवाच। 12-294-2x(6433)
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्।
अरिष्टनेमिना प्रोक्तं सगरायानुपृच्छते॥ 12-294-2(77254)
सगर उवाच। 12-294-3x(6434)
किं श्रेयः परमं ब्रह्मन्कृत्वेह सुखमश्नुते।
कथं न शोचेन्न क्षुभ्येदेतदिच्छामि वेदितुम्॥ 12-294-3(77255)
भीष्म उवाच। 12-294-4x(6435)
एवमुक्तस्तदा तार्क्ष्यः सर्वशास्त्रविदां वरः।
विबुध्य संपदं चाग्र्यां सद्वाक्यमिदमब्रवीत्॥ 12-294-4(77256)
सुखं मोक्षसुखं लोके न च मूढोऽवगच्छति।
प्रसक्तः पुत्रपशुषु धनधान्यसमाकुलः॥ 12-294-5(77257)
सक्तबुद्धिरशान्तात्मा स न शक्यश्चिकित्सितुम्।
स्नेहपाशसितो मूढो न स मोक्षाय कल्पते॥ 12-294-6(77258)
स्नेहजानिह ते पाशान्वक्ष्यामि शृणु तान्मम।
सकर्णकेन शिरसा शक्याश्छेत्तुं विजानता॥ 12-294-7(77259)
संभाव्य पुत्रान्कालेन यौवनस्थान्निवेश्य च।
समर्थाज्जीवने ज्ञात्वा मुक्तश्चर यथासुखम्॥ 12-294-8(77260)
भार्यां पुत्रवतीं वृद्धां लालितां पुत्रवत्सलाम्।
ज्ञात्वा प्रजहि कालेन परार्थमनुदृश्य च॥ 12-294-9(77261)
सापत्यो निरपत्यो वा मुक्तश्चर यथासुखम्।
इन्द्रियैरिन्द्रियार्थांस्त्वमनुभूय यथाविधि॥ 12-294-10(77262)
कृतकौन्तूहलस्तेषु मुक्तश्चर यथासुखम्।
उपपत्त्योपलब्धेषु लोकेषु च समो भव॥ 12-294-11(77263)
एष तावत्समासेन तव संकीर्तितो मया।
मोक्षार्थो विस्तरेणाथ भूयो वक्ष्यामि तच्छृणु॥ 12-294-12(77264)
मुक्ता वीतभया लोके चरन्ति सुखिनो नराः।
सक्तभावा विनश्यन्ति नरास्तत्र न संशयः॥ 12-294-13(77265)
आहारसंचये सक्ता यथा कीटपिपीलिकाः।
असक्ताः सुखिनो लोके सक्ताश्चैव विनाशिनः॥ 12-294-14(77266)
स्वजने न च ते चिन्ता कर्तव्या मोक्षबुद्धिना।
इमे मया विनाभूता भविष्यन्ति कथं त्विति॥ 12-294-15(77267)
स्वयमुत्पद्यते जन्तुः स्वयमेव विवर्धते।
सुखदुःखे तथा मृत्युं स्वयमेवाधिगच्छति॥ 12-294-16(77268)
भोजनाच्छादने चैव मात्रा पित्रा च संग्रहम्।
स्वकृते नाधिगच्छन्ति लोके नास्त्यकृतं पुरा॥ 12-294-17(77269)
धात्रा विहितभक्ष्याणि सर्वभूतानि मेदिनीम्।
लोके विपरिधावन्ति रक्षितानि स्वकर्मभिः॥ 12-294-18(77270)
स्वयं मृत्पिण्डभूतस्य परतन्त्रस्य सर्वदा।
को हेतुः स्वजनं द्वेष्टुं रक्षितं वाऽदृढात्मनः॥ 12-294-19(77271)
स्वजनं हि यदा मृत्युर्हन्त्येव भुवि पश्यतः।
कृतेऽपि यत्ने महति तत्र बोद्धव्यमात्मना॥ 12-294-20(77272)
जीवन्तमपि चैवैनं भरणे रक्षणे तथा।
असमाप्ते परित्यज्य पश्चादपि मरिष्यसि॥ 12-294-21(77273)
यदा मृतं च स्वजनं न ज्ञास्यसि कथंचन।
सुखितं दुःखितं वाऽपि ननु बोद्धव्यमात्मना॥ 12-294-22(77274)
मृते वा त्वयि जीवे वा यदा भोक्ष्यति वै जनः।
स्वकृतं ननु बुद्ध्वैवं कर्तव्यं हितमात्मनः॥ 12-294-23(77275)
एवं विजानँल्लोकेऽस्मिन्कः कस्येत्यभिनिश्चितः।
मोक्षे निवेशय मनो भूयश्चाप्युपधारय॥ 12-294-24(77276)
क्षुत्पिपासादयो भावा जिता यस्येह देहिनः।
क्रोधो लोभस्तथा मोहः सत्ववान्मुक्त एव सः॥ 12-294-25(77277)
द्यूते पाने तथा स्त्रीषु मृगयायां च यो नरः।
न प्रमाद्यति संमोहात्सततं मुक्त एव सः॥ 12-294-26(77278)
दिवसेदिवसे नाम रात्रौरात्रौ पुमान्सदा।
भोक्तव्यमिति यः स्विन्नो दोषबुद्धिः स उच्यते॥ 12-294-27(77279)
आत्मभावं तथा स्त्रीषु सक्तमेव पुनः पुनः।
यः पश्यति सदा युक्तो यथावन्मुक्त एव सः॥ 12-294-28(77280)
संभवं च विनाशं च भूतानां चेष्टितं तथा।
यस्तत्त्वतो विजानाति लोकेऽस्मिन्मुक्त एव सः॥ 12-294-29(77281)
प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु।
प्रासादे मञ्चकं स्थानं यः पश्यति स मुच्यते॥ 12-294-30(77282)
मृत्युनाऽभ्याहतं लोकं व्याधिभिश्चोपपीडितम्।
अवृत्तिकर्शितं चैव यः पश्यति स मुच्यते॥ 12-294-31(77283)
यः पश्यति स संतुष्टो नपश्यंश्च विहन्यते।
यश्चाप्यल्पेन संतुष्टो लोकेऽस्मिन्मुक्त एव सः॥ 12-294-32(77284)
अग्नीषोमाविदं सर्वमिति यश्चानुपश्यति।
न च संस्पृश्यते भावैरद्भुतैर्मुक्त एव सः॥ 12-294-33(77285)
पर्यङ्कशय्या भूमिश्च सामने यस्य देहिनः।
शाल्यन्नं च कदन्नं च यस्य स्यान्मुक्त एव सः॥ 12-294-34(77286)
क्षौमं च कुशचीरं च कौशेयं वल्कलानि च।
आविकं चर्म च समं यस्य स्यान्मुक्त एव सः॥ 12-294-35(77287)
पञ्चभूतसमुद्भूतं लोकं यश्चानुपश्यति।
तथाच वर्तते दृष्ट्वा लोकेऽस्मिन्मुक्त एव सः॥ 12-294-36(77288)
सुखदुःखे समे यस्य लाभालाभौ जयाजयौ।
इच्छाद्वेषौ भयोद्वेगौ सर्वथा मुक्त एव सः॥ 12-294-37(77289)
रक्तमूत्रपुरीषाणां दोषाणां संचयांस्तथा।
शरीरं दोषबहुलं दृष्ट्वा चैव विमुच्यते॥ 12-294-38(77290)
वलीपलितसंयोगं कार्श्यं वैवर्ण्यमेव च।
कुजभावं च जरयाः यः पश्यति स मुच्यतेत॥ 12-294-39(77291)
पुंस्त्वोपघातं कालेन दर्शनोपरमं तथा।
बाधिर्यं प्राणमन्दत्वं यः पश्यति स मुच्यते॥ 12-294-40(77292)
गतानृषींस्तथा देवानसुरांश्च तथा गतान्।
लोकादस्मात्परं लोकं यः पश्यति स मुच्यते॥ 12-294-41(77293)
प्रभावैरन्वितास्तैस्तैः पार्थिवेन्द्राः सहस्रशः।
ये गताः पृथिवीं त्यक्त्वा इति ज्ञात्वा विमुच्यते॥ 12-294-42(77294)
अर्थांश्च दुर्लभाँल्लोके क्लेशांश्च सुलभांस्तथा।
दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते॥ 12-294-43(77295)
अपत्यानां च वैगुण्यं जनं विगुणमेव च।
पश्यन्भूयिष्ठशो लोके को मोक्षं नाभिपूजयेत्॥ 12-294-44(77296)
शास्त्राल्लोकाच्च यो बुद्धः सर्वं पश्यति मानवः।
असारमिव मानुष्यं सर्वथा मुक्ता एव सः॥ 12-294-45(77297)
एतच्छ्रुत्वा मम वचो भवांश्चरतु मुक्तवत्।
गार्हस्थ्याद्यदि ते मोक्षे कृता बुद्धिरविक्लवा॥ 12-294-46(77298)
तत्तस्य वचनं श्रुत्वा सम्यक्स पृथिवीपतिः।
मोक्षजैश्च गुणैर्युक्तः पालयामास च प्रजाः॥ ॥ 12-294-47(77299)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुर्नवत्यधिकद्विशततमोऽध्यायः॥ 294॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-294-1 कथं विमुक्तः पृथिवीमिति थ. पाठः॥ 12-294-5 नच लोकोऽवगच्छतीति थ. ध. पाठः॥ 12-294-8 निवेश्य दारैः संयोज्य॥ 12-294-9 परार्थमन्तिमं पुरुषार्थं मोक्षम्। प्रजहि त्यज॥ 12-294-11 कृतकौतूहलः छिन्नौत्सुक्यः। लाभेषु च समो भवेति थ.ध. पाठः॥ 12-294-12 मोक्षार्थो मोक्षप्रयोजनः॥ 12-294-13 मुक्ताश्छिन्नस्नेहपाशाः। सक्तभावाः विषयासक्तवित्ताः॥ 12-294-30 वाहः धान्यपूर्णं शकटम्। सहस्रेषु कोटिष्विति समानाधिकरणम्। प्रस्थं पुरुषाहारपरिमितं धान्यम्। यात्रार्थं देहव्यवहारार्थम्। अधिकसंग्रहो व्यर्थं इति यः पश्यति॥ 12-294-31 अवृत्तिर्जीविकाया अभावः॥ 12-294-32 नपश्यन्नित्येकं पदम्। मृत्युनाभ्याहतं लोकमित्यनुकृष्यते॥ 12-294-33 अग्निर्जाठरो भोक्ता। सोमोऽन्नं भोज्यम्॥ 12-294-34 शालयश्च कदग्नं चेति झ. ध. पाठः॥ 12-294-38 श्लेष्ममूत्रपुरीषाणामिति ध. पाठः। छर्दिमूत्रेति थ. पाठः॥ 12-294-40 बाधिर्यं घ्राणमन्दत्वमिति ध. पाठः॥ 12-294-42 प्रतापैरन्विता इति थ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|